Breaking another hiatus

Had a fair long break from writing about vedAnta proper now. So, in an attempt to break the hiatus, wrote a bit on the stature of saguNopAsana as held by vivaraNa school from prakAshAtmayati's pa~ncapAdikA vivaraNa, and its untenable nature.

There is a bit I realize that can be extended out on the avidyAkalpita j~napti that I put out around the middle, which can be countered with asatyAt satyasiddhi, but a better rejoinder there would be the sublime one from ve~NkaTanAtha's asatyAtsatyasiddhibha~Nga.

The last few lines are more of a question around its practical implications and a certain line that I haven't employed thus far; on the mumukShu/adhikAri's sticking to karma/upAsana AprayANa. The exact positing of the vivaraNa school isn't extended in this one, fearing lack of brevity.

~

सर्वज्ञत्वे सति ब्रह्मणो सगुणत्व सिद्धिरुतवा निर्गुणता । ननु । सर्वज्ञत्व-सर्वशक्तित्व-सर्वात्मकत्वादयोऽपि सर्वे न परस्मिन् ब्रह्मणि उच्यन्त इति चेत् असिद्धिः । नेदमुपपन्नम् । अध्यारोपावादाभ्यां निश्प्रपञ्चं प्रपञ्च्यत इति चेत् तदपि न । अध्यारोपे सत्येव उपासना विधिः युष्माभिरुक्ता या न घटते । यथा हि रज्जावधिष्टित सर्पदृष्टेः अपवादेन न रज्जुज्ञानं केवल सर्पत्वस्य नास्तित्वं हि । ननु । सर्परज्ज्वोः दृष्टान्ते तु पूर्वासिद्ध ज्ञप्तिः उत्पद्यते यन्न सम्भवति ब्रह्मणि यत् स्वसिद्ध-सर्वाकारप्रकाशकं इति चेत् तत्र ब्रह्मणो प्रकाशकत्वं को जानाति ब्रह्म उत वा उपाधिः यद्वा काचिदन्या प्रकृतिः । नान्त्या या ज्ञातृत्वरहिता । नापि ब्रह्म यस्य ज्ञातृत्वं यूयं न अङ्गीकुर्वन्ति न वा युष्मदुक्त निर्गुणत्वोपकारकः पक्षः । न च उपाधिः ज्ञायते यस्य ज्ञानादयः सर्वे अविद्याकल्पिता इति युष्मदुक्ति बलात् । ततोऽपि निर्गुणत्वे अस्य लक्षणया वा गुणत्वसिद्धिः न सेत्स्यत किम् । प्रासङ्गिकरूपत्योक्ति पक्षे गुण कल्पनया त्याज्यत्वे सति किमर्थं युष्मदाचार्यपादैः चन्द्रमोलीश्वरादि पूजनानि । ननु । यत्तु आचार्यैः क्रियते तत्सर्वमपि परार्थं न स्वार्थमिति चेत् प्रथमोऽयं प्रश्नः । यथा युष्माभिरुक्तं महावाक्यजन्येन जीवन्मुक्ता आचार्याः शिष्यान् पश्यन्ति उत न । नेदमिति चेत् किमर्थं व्यर्थोऽयं व्यापारः । दृष्टौ तु कुलालचक्र-शरादि व्यवहारेऽपि असिद्धिः । बाधम् । दृष्टिस्तु यत्तेषां कार्या भाषणादयः वा तत्सर्वेऽपि अस्मदेव हि न तेषामिति चेत् । अज्ञो हि एतत् सर्वं ज्ञात्वाऽपि तेषु कर्मसु व्यवह्रियते न पण्डितः । एवं सन् किं मुमुक्षुरिति मन्यमानेन कश्चिद्पुरुषेण एते कार्या कर्तव्या उत न यथा युष्मदेव हि राद्धान्ते भामती-विवरण कोटिद्वयं कर्मणो विविदिषा कारणत्व-साक्षात् ज्ञानोत्पत्ति कारणत्वम् । सर्वत्र असङ्गतत्वात् असाधुरेव हि राद्धान्तो युष्मदादि ।।